________________
काव्यालङ्गसरः (६२)
75
مر
तस्या अलंकारतासिद्धेश्च । इत्थ च त्वदुक्तार्थापत्त्युदाहरणे घक्ष्यमाणसंभावनालंकारः ‘योऽन्यैर्यद्यर्थोक्तौ च कल्पनम्' इति यद्यर्थातिशयत्वेनोक्तः यद्यतिशयोको आपाधापादकयोर्विपरीतार्थविश्रान्तत्वम् । इह तु आपादकस्य सिद्धत्वं आपाद्यस्य संभाव्यमानत्वमिति वैचित्रगं तु तदवान्तरभेदतायास्साधकम् । न तु तद्वहिर्भूतताया इति न तत्राव्याप्तिशङ्काऽपीत्यलम्" इति ॥
इत्यलकारमणिहारे काव्यापत्तिसर एकषष्टितमः.
अथ काव्यलिङ्गसरः. (६२)
यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम् । समर्थनीयस्यार्थस्य काव्यलिङ्गं तदुच्यते ॥ अर्थान्तरन्यासवारणायानालढिान्तम् ॥ यथावा
भो दोषा युष्माभिर्वस्तुं स्थानान्तराणि मृग्यन्ताम् । लभ्योऽत्र नावकाशो मय्यघकूलंकषो वसति कश्चित् ॥ १५४८ ॥
अत्र दोषाणामवकाशालाभरूपः पूर्ववाक्यार्थः । तस्य च सकलदोषनिश्शेषहरणचणश्रीहरिसांनिध्यप्रदर्शनरूपोत्तरवाक्या-- र्थेन समर्थनं काव्यलिङ्गम् ॥