________________
काव्यार्थापत्तिरसरः (११)
69
रेफस्य क्षकारोक्तया तदधीना क्षकारवश्या सती क्षमा भवि. तेति क्षमेति निष्पत्स्यत इति नाश्चर्यमित्यप्यर्थश्चमात्कारमति. शाययति । अत्र त्वयितरमारूपप्रकृतार्थापेक्षया प्रकृतायाः क्षमायाः तदधीनत्वेन न्यूनत्वम् ॥ ___यथावा
करुणामयि कृतमन्तुं त्वमेव मां यदि रमे परित्यजसि । क्रोधोष्मलोऽपराधिष नाथोऽपि सुदूरमेव संत्यजति ॥ १५३३ ॥ __अत्रपि प्रस्तुतेनापाद्यमानस्य प्रस्तुतस्य न्यूनत्वम् । तच करुणामयि क्रोधोष्मल इति विशेषणाभ्यामवगम्यते । अत एवेयं परिकरोत्तेजिता । पूर्वा तु श्लेषसंकीर्णेति विशषः ॥
पुरुषोत्तम पाप्माने मम यदि हन्तुं त्वमेव नाशकोः। किमिदं न विस्मयपदं क्षमाऽपि तव नैव शक्ष्यति निहन्तुम् ॥ १५३४ ॥
तव क्षमा शान्तिः । अत्र पापस्थ अतिमहत्तरत्वेन भगवताऽपि दुरूच्छेदत्वं सिद्धवत्कुर्तुः कस्यचिदुक्तिः परमपुरुषापेक्षया क्षमायाः स्त्रीत्वेन न्यूनत्वम् । अत एव किं विस्मयपदमिदमित्युक्तम् । अत्रापाद्यापादकयोद्धयोरपि प्रकृतत्वम् ॥
अप्रकृतेन अप्रकृतस्यापादनं यथा
यदि कश्चित्तव तुलनां हृदि वाञ्छति जन्तुरच्युत तदानीम् । भूमेधौरन्धर्य सौमेरवमेव वहति परमाणुः ॥ १५३५ ॥