SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 68 . अलङ्कारमाणहारे हृद्यत्व च हृदयस्थितत्वं हृदयप्रियत्वं च। अत्र आपादकाप्रकृतादापाद्यमानस्य प्रकृतस्य साम्यम् ॥ श्लेषोत्तम्भितमिदम् ॥ नाथ सुमहाच्छविद्युत्पुष्करपुष्कलविकासि तव भासा । असितादं यदि विजितं जितमसिताब्जमिति तत्समं स्थाने ॥ १५३१ ॥ हे नाथ! सुमहाच्छा अतिमात्रनिर्मला विद्युत् तटित् यस्मिस्तत् । अन्यत्र सुमहती च्छविः दीप्तिः तया विद्योतत इति सुमहाच्छविद्यत् । द्योततेः किम् । पुष्करे व्याम्नि सलिले च । पुष्कलं अतिशोभनं यथातथा विकासि विजृम्भमाणं उत्फुलं च । असिताभं नीलजलदः तत्समं । असिताजं इन्दीवरं च। स्थाने युक्तम् । सुगममितरत् । अत्र द्वयोरापे प्रकृतत्वं साम्यं च ॥ मद्रक्षणोन्मुखा यदि रक्षोक्त्या सा रमैव तव दयिता । तर्हि हरे तदधीना क्षमाऽपि भविता तथेति नाश्चर्यम् ॥ १५३२ ॥ ___ हे हरे! रक्षोक्त्या रक्ष त्रायस्व इत्युक्तिमात्रेणैव सा जग. दीश्वरत्वेन दिव्यमहिषीत्वेन च प्रथिता तव दयिता रमैव मद्रक्षणोन्मुखा यदि तर्हि तदधीना रमाया वशंवदा क्षमा भूदेव्यपि । यद्वा तदधीना उक्त एवार्थः । क्षमा भगवतः क्षान्तिरपि भगवत्कर्तृकाश्रितापराधक्षमायाः लक्ष्मीपुरुषकारत्वनिष्पाद्यत्वादिति भावः । तथा मद्रक्षणोन्मुखा भवितति नाश्चर्यम् । 'नित्योन्नतो नृपतिरेव वशीकृतश्चक्तिं कुर्वते परिजना इति कः प्रयत्नः' इति न्यायादति भावः । पक्षे रमा रमेति शब्दव्याकः रक्षाक्तथा
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy