SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 67 काव्यार्थापत्तिसर : (६१) हे भगवन् ! पापमपि दुष्कृतिनमपि अत्रापिर्विरोधे । इममपि मामपीति भावः । अत्रापिस्समुच्चये । द्विप इति । द्विरद इति पापशब्दस्य पकारद्वयघटितत्वाच्छन्द थियोस्तादात्म्यात्तदर्थस्यापि द्विपत्वमिति हार्दोऽभिप्रायः । अपायात् विपदः । गोपाय रक्ष | लोकपावनस्य सकललोकपालानां रक्षकस्य द्विपावनं गजरक्षणं कियत् । द्वौ पातीति द्विपः तस्य वस्तुद्वयपालयितुः गोपनं कियादेत्यप्यर्थे गम्यते । द्विपावनमित्यत्र शेषषष्ठ्या कर्मणि षष्ठया वा समासः | लोकपावनस्य संकलभुवनपावायेतुः द्विपावनं द्वयोः गजस्य मम चेत्युभयोः पवित्रीकरणं इदं कियदित्यप्यर्थः प्रतीयते । तदा पूर्वार्धे गोपनं पवित्रीकरणरूपमित्यनुसंधेयम् । इमानि सर्वाण्युदाहरणानि प्राचामनुरोधेन ॥ रसगङ्गाधररीत्या त्विदं लक्षणम् - अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेत् । अपत्तिः कथ्यते सैषा काव्यार्थापत्तिरुच्यते ॥ केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिः काव्यार्थापतिः । न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा । प्रत्येकमर्थान्तरस्य साम्याधिक्यनूनस्वैर्द्वादशधा । ततो भावत्वाभावत्वाभ्यां चतुर्विंशतिभेदा ॥ प्रकृतेन प्रकृतस्यापादनं यथा सहजश्रीत्वाद्यदि ते हृद्यत्वं कौस्तुभः प्रपद्येय । सहजश्रीको न कुतः प्रपद्यतां हृद्यतां मणिकिरीटः ॥ १५३० ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy