SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 66 • अलङ्कारमणिहारे अव्ययः भगवान् । नाशरहितोऽपिति भावः 'अव्ययोऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिषु' इति मेदिनी । प्रह्लादस्य विपत्तौ आपदवसरे हिरण्यस्य हिरण्यकशिपोः वधाय वधं : कर्तुं व्यवधायकश्चेत् व्यवधानं चासंसक्ततयाऽवस्थान, औदासीन्यभाक्चेदिति यावत् । व्यवपूर्वकाद्दधातेः कर्तरि ण्वुल् । कः क्षमः। कोऽन्यस्तद्वधसमर्थ इत्यर्थः । किंच वरहिततां प्राप्य । प्रह्लादस्येति क इति चानुषज्यते । प्रह्लादस्य वरहिततां वरदानेनानुकूल्यं प्राप्य । धायकश्च पोषकोऽपि को भवेत् 'यत्रामृतः पुरुषस्सोऽव्ययात्मा । अव्ययः पुरुषस्साक्षी' इत्यव्ययतया प्रथितः परमपुरुष एव हिरण्यकशिपुवधतन्नन्दनपोषणयोरुदासीनश्चत्कस्तत्संहार्योऽन्यः प्रभवेदिति भावः ॥ पक्षे ब्यवधायकः व्यधायक शब्दः अव्ययः व्यं व्य इत्याकारकवर्णसमुदयं यातीति व्ययः स न भवतीत्यव्ययः । व्यशब्दोपपदकाद्यातेः ‘आतोनुपसर्ग कः' इति कप्रत्यपे 'आतो लोप इटि च' इत्यालोपः । व्यकाररहितश्चेदित्यर्थः । वधायकस्स्यात् वधायक इति निष्पद्यत । अवपूर्वकाहधातेवुलि ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इति अवेत्युपसर्गावयवाकारलोपः । ततः वरहिततां वकारविधुरतां प्राप्य धायकश्च धायक इति शब्दोऽपि भवेत् ॥ यथावा- .. गोपायापायान्मां पापमपि द्विप इतीममपि भगवन् । पयसिजनयन कियदिदं द्विपावनं लोकपावनस्य तव ॥ १५२९ ।।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy