________________
70
अलङ्कारमणिहारे
अत्राप्यप्रकृतात् अपादकात् अप्रकृतस्यापाद्यमानस्याधिक्यम् ॥ प्रकृतेन अप्रकृतस्यापादनं यथा
सर्वज्ञ यदि तवाग्रे वर्वर्ति मदीयमेतदपि कवनम् । सुरवैणिकवरसंसदि निरजीयत तर्हि मशकगानेन ॥ १५३६ ॥
निरजीयत निर्जितम् । निः पूर्वकाज्जयतेर्भावे लङ् । अत्र वर्वतीति विद्यमानतारूपात्प्रकृतार्थात् निरजीयतेत्यापाद्यमानस्याप्रकृतार्थस्य सर्वोत्कृष्टतयाऽवस्थानरूपस्याधिक्यम् ॥
जाग्रति रमापते त्वयि जगदवनार्थे यतेत चेदन्यः । सुलभं विलसति तायें शलभस्य तदा शकुन्तसाम्राज्यम् ।। १५३७ ।।
"
अत्र यतत इति यतनरूपात्प्रकृतार्थात् आपाद्यमानस्य साम्राज्यलाभरूपस्याप्रकृतस्याधिक्यम् ॥
भूमीभिक्षावसरे भगवाने वातिखर्वमूर्तिश्चत् । सर्वोऽप्यन्यः कृपणः खर्वीभवतीति किं नु वक्त
व्यम् ।। १५३८ ॥
भूमिभिक्षावसरे इत्येतदुत्तरार्धेऽप्यन्वेति ॥ अर्थिनिवहेप्सितार्थंस्त्वमेव चेन्ननु रमेश न ददीथाः । इतरो भिक्षाकः किं सकृत्तिको मृत्तिकामपि ददीत ॥ १५३९ ॥