________________
काव्यार्थापत्तिसरः (६१)
.
61
यथावा
समतायां चेद्यतते सुधा भवति नाथ तववाचा । अन्यत्तां तुलयेदिति वार्ता वार्तव भुजगशिखरीन्दो ॥ १५२० ॥
__हे नाथ! सुधा तव वाचा समतायां तुल्यतायां यततेचेत् मुधा भवति व्यर्थोद्यमा संपद्यते । निस्सारत्वान्न तत्तुल्या स्यादिति भावः । सुधा सुधेति शब्दव्यक्तिः समतायां सस्य सकारस्य मतायां मवर्णतायां यततेचेत् मुधा भवति मुधेति निष्पद्यत इति चमत्कारातिशयः। अन्यत् वस्त्वन्तरं तां तुलये. दिति वार्ता संभावनाऽपि वातैव फल्गुरेव ‘वात फल्गुन्यरोगे त्रिषु, इत्यमरः ॥ . यथावा
पटुरुचिना येन जितः कल्याब्जव्यूह एव तस्यास्य । तव वदनस्य कियानिह भविता जङराजमण्डलस्य जयः ॥ १५२१ ॥
अत्र वदनस्येति शेषे षष्ठी। राजमण्डलस्येत्यत्र तु कर्माण । तेन 'उभयप्राप्तौ कर्मणि' इति नियमस्य नायं विषय इति ध्येयम् । कर्तृकर्मणार्युगपत्कृतिप्राप्तावेव तन्नियमप्रवृत्तेः । यद्वा ‘शेषे विभाषा' इति वार्तिके विभाषाङ्गीकारात् शब्दानामनुशासनमाचार्येणाचार्यस्य वेत्यादाविव उक्तनियमाप्रवृत्तेः । कर्तृकमणोरुभयोरपि षष्ठी निष्प्रत्यूहव । कल्यः नीरोगः दक्षो वा