SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 62 अलङ्कारमणिहारे सजो वा 'कल्यमहर्मुखे । कल्या कल्याणवाचि स्यात्रिीषु नीरोगदक्षयोः' इति रत्नमाला । ‘कल्यौ सजनिरामयो, इत्यमरः । तस्य तादृशस्य कस्यचिद्राश इति गम्यते । यः अब्जन्यूहः पद्माकारस्सेनाविन्यासविशेषः तस्थो वीरजन इति यावत् । वस्तुतस्तु कल्यं प्रभातं तस्मिन् यः अब्जप्यूहः पद्मसमूह इत्यर्थः । जडः स्त: वुद्धिहीनो वा । 'जडस्स्तब्धे बुद्धिहीने हिमग्रस्तेऽपि वाच्यवत्' इति रत्नमाला । तथाविधो यो राजा नृपतिः तस्य यत् मण्डलं राष्ट्रं तस्य । परमार्थतस्तु जडः शिशिरः यः राजा चन्द्रः तस्य मण्डलं बिम्बं तस्येत्यर्थः । अन्यत्तुगमम् । अत्र कल्याब्जन्यूहनिर्जेतुर्वदनस्य जडराजमण्डलजयः कैमुतिकन्यन्यसिद्धः । श्लेषसमासोक्त्युत्तम्भितेयम् ॥ यथावा- . सर्वज्ञश्लाघ्ये तव वदनेन सता कलानिधौ विजिते । स्वत एव भङ्गभाजो जङजातस्य तु जयेऽत्र को विशयः ॥ १५२२ ॥ ____ सता विदुषा प्रशस्तेन च तव वदनेन सर्वज्ञश्लाध्ये विद्वन्मणिश्लाघनीये धूर्जटिशिरोविधृते च । कलानिधौ सर्वविद्यानिवासभूते विदुषि चन्द्रमनसि च । विजिते सति । स्वत एव भङ्गं पराभवं तरङ्गं च भजतीति तथोक्तस्य जडजातस्य स्तब्धजन्मनः । निसर्गत एव जडजन्मनः सर्वत्र पराभवजुषश्चोते भावः । ईदृशस्य जये अभिभवे को विशयः कस्संदेहः न कोऽपीति भावः। अत्रापि महाविद्वजायनो वदनस्य निसर्गभङ्गशालिजडजातविजयरूपार्थो दण्डापूपिकया निबद्धः॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy