________________
60
अलङ्कारमणिहारे
पदं वदनं च कर्तृ । अब्जं कर्म । कमलं चन्द्रमसं चेत्यर्थः । दिनकरत्यादिविशेषणमुनयोस्तुल्यम् । वदनं तथेति दिन करवितीर्णपूर्णयुतिभरमजं जयतीति वदितुं के नाम सुधियस्संदिहतामिति योजना ॥
यथावा
अर्थिजनार्दनचकितो अजसेऽच्युत चेत्त्वमेव गिरिदुर्गम् । किं चित्रं श्रयते श्रीस्त्वदुरोदुर्ग निसर्गतो भीरुः ॥ १५१८॥
अर्थिजनानां अर्दनं पीडनं याचनं च । तस्मात् चकितः नेग चकित इति वा । भीत इत्यर्थः ।
यथावादेवस्य लोकबन्धोः प्रसादतः कमलमपि मुखे कविताम् । समुपेत्य यदि च विमलं भवति कविकुलं तथेति किं चित्रम् ॥ १५१९ ॥
कमलं लोकबन्धोर्देवस्य भानोः ‘स नो बन्धुर्जनिता' इत्युतरीत्या नियाजलोकबान्धवस्य भगवतश्च । प्रसादात् प्रकाशात् अनुग्रहाच । मुखे वदने अग्रभागे च । कवितां कवनं कस्य कवर्णस्य वितां विवर्णत्वं समुपेत्य विमलं भवत्येव शुचि भवत्येव ‘विप्रश्शुचिः कविः' इति श्रुतेः । विमलमिति शब्दरूपं निष्पद्यत इति तत्त्वम् ॥