SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ काव्यार्थापत्तिसरः (६१) 59 तथाहि तव तेजसि भाति विभो न रविन विधुर्न भानि न च तटितः । भान्ति कुतोऽग्नेर्वार्ता भान्तं त्वामनुविभाति सर्वमिदम् ॥ १५१५ ॥ अत्र 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वम्' इति श्रुतिप्रतिपादितप्रभावे भगवत्तेजसि सहस्रभानुप्रभृतीनामेव भानदौलभ्ये ततोऽप्यतिमात्रन्यूनस्य सलिलासेचनमात्रेणापि शाम्यतोऽग्ने - नदोर्लभ्ये कैमुतिकन्यायेन प्रतिपाद्यते ।। यथावा--- हारलता याकाचित्राथ तवोरलि पदं यदि निदध्यात् । त्वदयिता जलधिसुता कृतास्पदाऽत्रेति नैतदाश्चर्यम् ॥ ५५१६ ॥ __ अत्र हारलताकर्तृकभगवद्वक्षोऽधिकरणकपदन्यासेन अप्रकृतेन भगवद्वक्षोऽधिकरणकश्रीपदन्यसनरूपस्य प्रकृतस्य सौकर्य दण्डापूपिकया प्रतिपाद्यते। इयं च हारलतति स्त्रीलिङ्गशब्देन नायिकात्वप्रतीतेस्समासोक्त्या संकीर्णा । एवमुत्तरत्रापि यथासंभवमूह्यम् ॥ यथावादिनकरवितीर्णपूर्णद्युतिभरमब्जं जयेद्यदि पदं ते । वदनं तथेति सुधियो वदितुं के नाम नाथ संदिहताम् ॥ १५१७ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy