________________
58
अलङ्कारमणिहारे
किंतु तदवान्तरविशेषो भवितुम् । न हि पृथिव्यवान्तरभेदाद्धटात्पटो विलक्षण इति पृथिव्य बहिर्भवतीत्यपि वदन्ति ॥
इत्यलंकारमणिहारे प्रत्यनीकसरप्षष्टितमः.
अथ काव्याापत्तिसरः. (६१)
दण्डापपिकया यत्रार्थान्तरापतनं भवेत् । काव्यार्थापत्तिरेषा स्यादलंकारविदां मता ॥
दण्डापूंपौ विद्येते यस्यां नीती सा दण्डापूपिका नीतिः अहं शक्तोऽ, शक्तोऽस्यां क्रियायामित्यहमहमिकेतिवन्मत्वर्थीयष्ठन् । दण्डापूपाविव दण्डापूपिका ‘इवे प्रतिकृती' इति कन्वा । अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहभाव्यपूपभक्षणमप्यसिद्धम् । एवं विधो न्यायो दण्डापूपिकाशब्देनोच्यते । यथा दण्डभक्षणादपूपभक्षणमायातं तद्वत्कृस्यचिदर्थस्य निष्पत्ती सामथर्यात्समानन्यायलक्षणादयान्तरमापतति सार्थापतिः । ता. त्रिकाभिमतार्थापत्तिव्यावर्तनाय काव्य पदम् । अयमेव कैमु. तिकन्याय इत्यप्युच्यते । अत एव ‘कैमुत्येनार्थसंसिद्धिः काव्या
पत्तिरिष्यते' इति लक्षणं प्रणीतं कुवलयानन्दे । नन्वेवमर्थादथान्तरप्रतीतेरनुमानमेवेदमिति चेन्न । समानन्यायस्य संबन्धरूपत्वाभात् । दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव । दण्ड भक्षणेपे पृथकप्रदेशावस्थानादिना केनापि निमित्तेन अपूपानामभक्षणस्यापि भावात् । अनुमानं पुनर्नियतमेवार्थादर्थान्तरस्यापतनामत्यस्यास्ततः पृथग्भावः ॥