________________
प्रत्यनीकालकारसरः (६०)
53
या चपला विद्युत् निजरुचिं तव श्रियं अपहृत्य । चपलेत्यनेनानवस्थितचित्ततया असमीक्ष्यकारिता द्यातिता। पयोधरे जलदे लीना सती कृतार्थेव नेतःपरं मम भयं किंचिदपि संभवेदिति कृतकृत्येव । उल्लसति हृष्यतीत्यर्थः । प्रकाशत इति तत्त्वम् । हारमिषां वज्रमणिहारच्छलां तां चपलां सपयोधरं स्वरुचिप्रतिभटतटिल्लताश्रयभूतजलधरसहितं यथास्यात्तथा । पक्षे स्तनसहितं यथास्यात्तथा कण्ठे नासे 'कण्ठे बद्वा दशग्रीवम्' इत्यादिवविायां बनासीत्यर्थः । पक्षे कन्धरायां परिष्कारहेतोः प्रतिमुञ्चसीत्यर्थः । अत्र साक्षात्प्रतिभटभूतायास्तटिल्लतायास्साश्रयायास्तिरस्कारः कैतवापइतिश्लेषमूलाभेदाध्यवसायाभ्यामुज्जीवित इति पूर्वोदाहरणेभ्यो वैलक्षण्यम् ॥
द्वितीयं यथा
तनुरुचिजितस्तवाच्युत मुखं विजेतुं विधुर्भवन्नेव । मकरो भूत्वा मधुकर इभमग्रसत त्वदेकशरणमहो ॥ १५०७ ॥
__ हे अच्युत ! मधुकरः भ्रमर. मधुकरशब्दश्च । तयोस्तादात्म्म् । तव तनुरुच्या शरीरश्रिया अल्पयैव त्विषेत्यपि गम्यते । जितस्सन् तव मुखं विजेतुं विधुभवन्नेव चन्द्रमा भवन्नेव विगतधुवर्णो भवन्नेव च विधूभवनसमसमयमेवेति भावः । मकरः ग्राहः भूत्वा पक्षे मधुकरशब्दः धुकारलोपे मकरो भूत्वेत्यर्थः । त्वदेकशरणं इभं गजं अग्रसत अस्तवान् । अत्र भगवत्तनुरुचिविजितस्य तत्प्रताकारानीशस्य मधुकरस्य रूपान्तरपरिग्रहेण तदेकशरणे वारणे पराक्रमः प्रकटितः ॥ इदमुपदर्शित