SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 54 अलङ्कारमणिहारे शब्दार्थतादात्म्यमूलकावेच्छा त्तविशेषशालि । एवमग्रिमोदाहार. णयोरपि द्रष्टव्यम् ॥ -- यथावा जेत्रीं तव गां भेत्तुं प्रथमं कोपाश्रितः किलोपगतोऽम्ब । लोपगतोऽन्ते कोकिल इह कोलस्सन् भिनत्ति गां तदभिख्याम् || १५०८ ॥ 1 हे अम्ब कोकिलः जेत्रीं स्वावमन्त्रीं तव गां भेत्तुं विदारयितुं प्रथमं आदौ कोपचितः क्रोधान्वितस्सन् उपगतः किल त्वद्वचनसमीपं गतो ननु । अन्ते पर्यवसाने लोपगतः स्वयमेव छेदनं प्राप्तस्सन् कोलस्सन् वराहो भवन् तदभिख्यां गोनामधारिणीं गां भुवं भिनत्ति भूदारत्वप्रसिद्धेस्तस्यति भावः ॥ पक्षे कोकिलः कोकिलाशब्दः प्रथ मं को इति वर्णेन अपाश्रितः अश्रितः किलोपं किवर्णभ्रंशं गतः 'द्वितीया श्रित' इति समासः । अन्ते अवसाने लोपगतः लवर्णेन युक्तः । लुप्तकिवर्णमात्रः कोकिल, शब्दः कोल इति निष्पन्न इत्यर्थः ॥ यथावा इक्षुर्गवा तव जितो द्रुतमनितरदृश्यमासमुख एव । अवलम्ब्य तरक्षुत्वं हिनस्ति गास्तदभिधाः क्रुधा भगवन् ।। १५०९ ॥ हे भगवन् ! इक्षुः तव गवा वाचा जितः तिरस्कृतः अत एव द्रुतं अनितरदृश्यमानमुखः पराजितत्वप्रयुक्तावमानेनान्येषामदर्शितमुख इति भावः । पक्षे अविद्यमानः इः इत्याकारकवर्णः
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy