________________
52
अलङ्कारमणिहारे
यथावा
जेतुं त्मामपटीयान्मल्लस्त्रीभूयमेत्य मल्ली सन्। जयति शिरोऽधिवसंस्तव ललनाः किल नन्दतनय तव जैत्रयः ॥ १५०५ ॥
हे नन्दतनय ! इदं विवक्षितमल्लजयाद्यपस्काराय । मल्लः चाणूरादिः त्वां मल्लयुद्धविशारदं त्वं जेतुं अपटीयान् सन् । स्त्रीभूयं स्त्रीत्वं 'भुवो भावे' इति क्यप् । एत्य मल्ली सन् मलशब्दाजातिलक्षणे ङीषि मल्लीति निष्पत्तेरिति हृदयम् । पक्षे मल्लीकुसुमतामाश्रित इत्यर्थः। मल्लोशब्दाद्वैकारिकेऽणि 'पुष्पमूलेषु बहुळम्' इति तस्य लुप् 'लुपि युक्तवद्वयक्तिवचने' इति युक्तवद्भावः । तव, शिरः अधिवसन् सन् जयति त्वां पराभवतीत्यर्थः । पक्षे शिरोमाल्यतया उत्कर्ष प्राप्नोतीत्यर्थः । तथाहिललनाः स्त्रियः तव जैत्रयः किल । तव गोपवधूवशंवदत्वादिति भावः । यथोक्तमाचार्यैः ‘तदपि परमं तत्वं गोपजिनस्य वशं. वदम्' इात । किलेत्युपालम्भे । अतः पुंस्त्वेन दुस्साधं त्वजयं स्त्रीत्वेन साधितवानिति भावः । एषु त्रिदाहरणेष्वपि साक्षात्प्रतिपक्षतिरस्कारः शब्दार्थतादात्म्यमूलकश्लेषभित्तिकाभेदाध्य. वसायानुप्राणित इति विशेषो द्रष्टव्यः ॥
यथावानिजरुचिमपहृत्य पयोधरलीनोल्लसति या कुतार्थेव । तां चपलां हारमिषां सपयोधरमम्ब नद्यसे कण्ठे ॥ १५०६ ॥