________________
प्रत्यनीकालङ्कारसरः (६०)
51
पक्षे तापिञ्छमिति पर भ्रंशोऽस्थास्तीति भ्रंशि। ता इति आत्मा स्वरूपं यस्य सः तात्मा मुखवर्णः प्रथमाक्षरं यस्य तत्तथाभूतं सत् पिञ्छं भूत्वा तापिञ्छमितिपदं अद्यताकारोत्सारणेन पिञ्छमिति निष्पयेत्यर्थः ॥ सुगममन्यत् ॥
यथावा
उरसापास्तं शौरेः कपाटमथ कटतया मदोब्रहम् । ऊर्च कमञ्चयननु तदुरश्छादयति कङ्कटात्माऽहो ।। १५०४॥
कपाटं कवाट ‘कवाटमररं तुल्ये' इत्यत्र कपाटमिति पाठमेव मुख्यतयाऽभ्युपेत्य के शिरः पाटयतीति विग्रहः प्रदर्शितस्सुधायाम् । पक्षे कपाटमिति पदं च । अनयोस्तादात्म्यम् । शौरेः उरसा अपास्तं निरस्तं सत् ‘कवाटवक्षाः परिणद्धकंधरः' इति कवाटस्योरस्सादृश्योक्तेस्तस्य तदपास्तत्वोक्तिः। पक्षे पास्तमिति भेदः । पाः पाकारः अस्तः निरस्तो यस्मिस्तत्तथोक्तं सदित्यर्थः । कटतया गजगण्डतया “गण्डः कट' इत्यमरः । मदोन्नद्धं मदन गर्वेण दानोदकेन च उन्नद्धं उद्वत्तं सत् । अतएव कं शिरः ऊर्ध्व अञ्चयत् उन्नमयादित्यर्थ: । पक्षे ऊर्ध्व अग्रभागे इति यावत् । कमश्च यत् इति च्छेदः । कमश्च कमित्याकारकं मान्तशब्दं च यत् प्राप्नवत्सत् इणश्शतार 'इणो यण्' इति यण् । कङ्कट इत्यात्मा स्वरूपं यस्य तत् कङ्कटात्म कवचरूपं सत् 'उरश्छदः कङ्कटकः' इत्यमरः । तदुरः भगवद्वक्षः छादयति । पक्षे कङ्कटात्मा कङ्कट इति निष्पन्नस्वरूपमित्यर्थः । कटशब्दस्यादौ कम् इत्यस्य न्यासे अनुस्वारे परसवर्णे च कङ्कटत्वेन निष्पन्नमित्यर्थः॥