________________
50
अलङ्कार मणिहारे
यत्र बलिनि प्रतिपक्षे दुर्बलेन साक्षातिरस्कारः तत्र प्रतिकतुमनीशानेन दुर्बलेन तदीयस्य तिरस्कारः स्वयमसमर्थस्य स्वविरोधिप्रतिद्वन्द्विनि साहायकं वा प्रत्यनीकम् । अनोकस्य सदृशं प्रत्यनीकम् | सादृश्यस्य यथार्थत्वेनैव सिद्धे ' अव्ययं विभक्ति ' इत्यादिसूत्रे पुनस्सादृश्यग्रहणाद्गुणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते । तदसामर्थ्य तत्संबन्धिनः कस्यचित्तिरस्कारः क्रियते । तदभावे च प्रबलस्वविरोधिप्रतिकर्तुस्माह्यं क्रियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमित्याख्यायते । अत्र च प्रतिपक्षगतं प्राबल्यं आत्मगतं दौर्बल्यं च गम्मते ॥ तत्राद्या यथा
-
महसा तव सादितभास्सहसा दिवसाधिपस्य किल बिम्बम् | अविलम्बं कौस्तुभतामवलम्ब्याक्रामति स्म तव हृदयम् ।। १५०२ ॥
अत्र साक्षात्प्रतिपक्षतिरस्कारः प्रतिपादितः ॥
यथावा.
त्वद्रुचिकृत परिभवतस्तापिञ्छं भ्रंशितात्ममुखवणम् । पिञ्छं भूवाऽमर्षात्पदं न्यधात्तव शिरस्पदे शौरे ।। १५०३ ।।
तापिञ्छस्य तमालस्य विकारः पुष्पं तापिञ्छं “द्विहीनं प्रसवे सर्वम्' इति क्लीयता । त्वदुचिकृतात् परिभवतः पराभवात् भ्रंशितः भ्रंशं प्रापितः अत्मनो मुखवर्णः वदनतेजः यस्य तथोक्तं प्राप्तमुखवैवर्ण्यमित्यर्थः । पिञ्छं वह भूत्वा तत्त्वेनाविर्भूयेत्यर्थः ।