________________
प्रत्यनीकालंकारसरः (६०)
अत्र यादृच्छिक सुकृतादेव सिद्धयन्त्या भगवत्कर्तृकोदिधीर्षायास्साधुसमागमादनायासेन सिद्धिः ॥
49
यथावा
काङ्क्षन्त्या व्रजसुदृशश्रेर्दातुं स्वयंग्रहाश्लेषम् । आननसौरभलोभादापतदळिबृन्दमकृत साहाय्यम् ।। १५०० ॥
1
अत्रोत्कण्ठिताया गोपललनाया आकस्मिकामळिन्दवृन्दापतनरूपकारणान्तरसमवधानेन शौरिकर्मकस्वयंग्रहाश्लेषस्यानायासेन सिद्धिः ॥
शौरिनवचाटुभङ्गीमङ्गीचक्रे यदा व्रजलताङ्गी । श्थमपि तदोपगूहनमकार्य कस्मात्पिकारवैस्सा
न्द्रम् ॥ १५०१ ॥
अत्र पिकनिनादैरुपगूहनस्य साङ्गत्वसिद्धिः ॥ इत्यलंकारमणिहारे समाधिसर एकोनषष्टितमः.
अथ प्रत्यनीकालंकारसरः (६०)
बलिनि प्रतिपक्षे वा तत्प्रक्षे वा तिरस्कृतिः । तत्प्रतिद्वंद्विसाह्यं वा प्रत्यनीकमितीर्यते ॥
ALANKARA—III.
7