SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 48 अलङ्कारमणिहारे यथावापश्यति हरिरुपसर्पति तिष्ठत्यालपति हसति परिहसति । सल्लपति स्पृशति समालिङ्गति गोपीमुपैति तदभेदम् ॥ १४९८ ॥ आलापः आभाषणं, सल्लापः मिथोभाषणम् । अत्राधे कृतिरूपकर्तृकारकस्य एकस्यैव अधिरोहणादिक्रियास्वन्वयः क्रमिको निबद्धः । द्वितीये हरिरूपकर्तृकारकस्य एकस्यैव दर्शनादिक्रियास्वन्वयः ऋमिक इति प्रथमसमुच्चयप्रतिद्वंद्वीदम् ॥ इत्यलंकारमणिहारे कारकदीपकसरोऽष्टापञ्चाशः अथ समाध्यलंकारसरः (५९) कारणान्तरसांनिध्यवशात्कार्यस्य कस्यचित् । सौकर्य वर्ण्यते यत्र समाधिस्तत्र गीयते ॥ एककारणजन्यस्य कार्यस्याकस्मिककारणान्तरसमवधाना. हितं यत्सौर्य तस्य सम्यगाधानात्समाधिरलंकारः । तच्च कार्यस्यानायासेन सिद्धया सागसिद्धया च । समुच्चयविशेषापेक्षयाऽस्य वैलक्षण्यं त्वभिहितमेव प्राक् ॥ यथावा यादृच्छिकसुकृतवशान्मादृक्षं त्वं समुद्दिधीर्षु रसि । तादृशसाधुसमागम ईदृशसमये हठादुपनतो मे ॥ १४९९ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy