________________
कारकंदीपकालङ्कारसरः (६८)
अथ कारकदीपकसरः (५८)
ऋमिकाणां क्रियाणां चेदेककारकगामिनाम् । गुम्भनं क्रियते तत्तु भवेत्कारकदीपकम् ॥
एककारकगतानां क्रमिकाणां क्रियाणां गुम्भनं कारकदीपकमित्यलङ्कारः। यद्यपि निबध्यमानानां क्रियाणां प्रस्तुतत्वेन सर्वोद्देशेनैव धर्मिणः कारकस्य प्रवृत्तिः । अतः किंचिदुद्देशेन प्रवृत्तस्यान्यत्र प्रासङ्गिकत्वलक्षणदीपकसादृश्यविरहान दीपकव्यपदेशो युक्तः। तथाऽपि एकस्यानेकान्वयमात्रेण दीपकसाह श्यमाश्रित्य तथा व्यपदेशः। दण्डिना तु कारकदीपकं दीपक एवान्तर्भाव्य तुल्ययोगिताऽपि तद्भेदत्वेनैव प्रतिपादितत्यवोचाम दीपकालंकारनिरूपणावसर एव । वस्तुतस्तु मालादीपकवत्पृथगेवायमलंकारतामहति न दीपकेऽन्तर्भावं, तज्जीवातोरुपमागर्भताया इहाभावात् । समुच्चयप्रतिद्वंद्वितया विच्छित्तिविशेषसद्भावाञ्चेत्ययं पूर्वैरकृतविवेकोऽपि प्रदर्शितो दीक्षितैविकल्पालंकार इवालंकारसर्वस्वकृता ॥
उदाहरणं
अधिरोहति वृषशिखरिणमभिमजति नाथ तत्र सरसि कृती । त्वामञ्चत्यथ मुञ्चति मुदाऽश्रु तत्रैव वाञ्छति निवस्तुम् ॥ १४९७ ॥