________________
46
अलङ्कारमणिहारे
शोभनाशोभनसमुच्चयः । शोभनाशोभनानामित्यत्र कमर्धारय आश्रितः । न द्वंद्वः । सहचराभन्नत्वदोषापत्तेः ॥
एवमशोभनशोभनांनामप्येककार्यजननार्थमापततां समुच्चयस्संभवति ॥
यथावा
काव्यं त्वञ्चरितमयं भव्यभवनामकोमलं गीतम् । तिर्यक्त्वमपि गिरौ तव पर्याप्तं श्रेयसे श्रियःकान्त ॥ १४९५ ॥ ___ अत्र 'काव्यालापांश्च वर्जयेत् । न च रक्तो विरावयेत्' इत्यादिप्रमाणैः काव्यगोतादीनि स्वभावतोऽशोभनान्यपि विशेषण - बलाच्छोभनानि समुच्चितानि । तव गिरौ तिर्यक्त्वं त्वद्र्यिधियरणकं तिर्यक्त्वमित्यर्थः॥
यथावात्वन्निध्यानजमश्रु त्वयानजमहिगिरीश यजाडयम् । त्वन्नामकथनजन्यं सगद्गदत्वं च सद्गतेस्सरणिः ॥ १४९६ ॥
अत्राथुप्रभृतयो निसर्गतोऽशोभना अपि भेदकमहिना शोभनाः ॥
केचित्तु द्रव्यजात्योरपि समुच्चयं मेनिरे । स च विच्छित्तिविशेषविरहादस्माभिरुपेश्यते ॥
इबलकारमणिहारे समुञ्चयसरस्सप्तपञ्चाशः.