SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 45 समुच्चयालङ्कारसरः (६७) mmmmmmmmmmmmmm रीकाक्षत्वादिषु त्रिषु एकेनापि जगदीश्वरत्वप्रख्यापनसंभवे संघ र्षादिव त्रयोऽपि तदर्थमापतन्तश्शोभनास्समुच्चिताः॥ यथावा प्रेमोदयः कुतहलमामोदव्यतिकरश्च रोमाञ्चः। त्वामालोकयतो मम सीमां चित्तस्य लोलयति भूमन् ।। १४९२ ॥ अत्रापि प्रेमोदयादेस्समुच्चयः पूर्ववद्रष्टव्यः ॥ इदं सर्व शोभनैश्शोभनानां समुच्चये उदाहरणम् । अशाभेनरशोभनानां समुच्चयो यथा__ दुराः खलु विषया दुर्दान्तानीन्द्रियाणि मम नाथ। दुष्कर्म च निरवधिकं मर्म निकृन्तन्ति चिन्त्यमानानि ॥ १४९३ ।। ____ अत्र दुर्वारत्वादिनाऽशोभनानां विषयाणां दुर्दान्तत्वादिभिरशोभनैरिन्द्रियादिभिस्समुच्चयः। अत्र विषयदुर्वारत्वेनेकेनैव चिन्त्यमानेन मर्मनिकृन्तनसिद्धौ इन्द्रियदुर्दान्तत्वादिकमपि तदर्थमापतितं समुच्चीयते ॥ शोभनाशोभनसमुच्चयो यथा तव निवर्णनहीनं नयनं वर्णनविहीनमपि रसनम् । आकर्णनहीनं च श्रवणं प्रवणं मनः कथं त्वयि मे ॥ १४९४॥ ___ अत्र नयनादीनि स्वाभाव्याच्छोभनानीति न निन्दनीयानि विशेषणमाहात्म्याञ्चाशोभनानि निन्दागोचरतां प्रपद्यन्त इति
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy