________________
42
अलङ्कारमणिहारे
शोभनानां शोभनाशोभनानां तथाविधैस्समन्वयः । अयं तृती. यप्रभेद एव । 'अहंप्रथमिकाभाजामेककार्यान्वयोऽपि सः' इति द्वितीयसमुच्चयत्वेन लक्षितो दीक्षितैः । अस्यैव तत्कर इति नामाहुः प्राञ्चः। तदुक्तं 'तत्सिद्धिहेतोरेकस्मिन् यत्रान्यस्तत्करं भवेत् ' इति । विकल्पप्रतिक्षेपणास्या स्थितिः । न चास्मिन्तृतीयप्रभेदे वक्ष्यमाणसमाध्यलकारत्वमाशङ्कनीयं, यत्र ोकेन कार्य निर्वय॑मानेऽष्यन्येनाकस्मादापतता कारणेन सौकर्यादिरूपोऽतिशयस्संपाद्यते स तस्य विषयः। अस्मिंस्तु तृतीयसमुच्चये यत्रैककार्य निर्वर्तयितुं युगपदनेके खले कपोता इवहिंप्रथमिकया समापतन्ति कार्यस्य च न कोऽप्यातशयः सोऽस्य विषयः ॥
तत्र भिन्नधर्म्यन्वयो यथा
शरदिन्दुकरैर्विशदं गगनं यमुनावनं तु हरिधाना । आनीलं स्मररागादातानं चापि गोपिकानयनम् ॥ १४८३ ॥
नियति नयनयुगं त्वयि मुह्यति संमोदपरवशं चेतः । स्त्रवति प्रमोदबाष्पं द्रवति च तव सेवनाद्रयं भूमन् ॥ १४८४ ॥
अनाये गुणानां द्वितीय क्रियाणां च योगपद्येन भिन्नधर्म्यन्वयः ॥
एकधर्म्यन्वयो यथाःमणिवरभासाऽरुणितं हाररुचा स्मेरमसितमा.