SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ समुच्चयालंकारसरः (५७) अत्र धात्रीभोगवैधात्र संपत्प्राप्तयोः श्लाध्यत्वेनैौपम्यं विवक्षितम् । धात्वर्थयोरयं विकल्पः न तु धात्री वैधात्रिसंपदोः, तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यं, कर्तृरूपसाधारणधर्ममादाय औपम्यस्यात्र सुन्दरस्यानिष्पतेः । अन्यथा 'हतो वा प्राप्स्यस स्वर्गे जित्वा वा भोक्ष्यले महीम् ' इत्यत्रेव 'हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्यत्राप्यौपम्यप्रत्ययापत्तेरित्याहुः । एवंचास्मिन्नलकारे विकल्प्यमानयोस्सुन्दरमौपम्यमलंकारताबीजं तदादायैव चमत्कारोल्लासात् । अन्यथा तु विकल्पमात्रमिति रहस्यम् ॥ इत्यलंकारमणिहारे विकल्पसरण्षट्पञ्चाशः 41 अथ समुच्चयालंकारसरः (५७) यौगपद्यात्पदार्थानामन्वयस्स्यात्समुच्चयः ॥ यौगपद्यादिति यथासंख्यव्यावृत्त्यर्थे, न त्वेकक्षणप्रतिपत्त्यर्थम् । तेन शतपत्रपत्रशतदन्यायेन क्वचित्किंचित्कालभेदेऽपि न समुच्चयभ्रंशः । स तावद्विविधः धर्मिभेदधर्मैक्याभ्याम् । धर्मैयेsपि द्वैविध्यं कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये कारणतया एकधर्म्यन्वयं चेति । एवं त्रिविधेऽस्मिन् प्राथमिकयोर्भेदयोः गुणानां क्रियाणां गुणक्रियाणां च । तृतीयप्रभेदे शोभनानाम ALANKARA—III, 6
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy