SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 40 अलङ्कारमणिहारे प्रायः । अत्र भोगयोगयोरन्योन्यविरुद्धयोर्योगपद्यायोगाद्विकल्पः । अत्रापि कर्मणो गयोगयोः क्रियाफलेन दानेनैव समानधर्मेणौपम्यम् ॥ यथावा नतरक्षणकृतदीक्षस्त्वमिति त्वां नाथ शरणमभिनाथे। आतिर्वा मम शाम्यतु कीर्तिर्वा तव नतावनैकान्ता ॥ १४८१॥ त्वं रक्षसि चेन्ममार्तिश्शाम्यति । तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥ इत्युक्तेः। नचेत तव शरणागतपरित्राणपरायणत्वनिबन्धनकीर्तिश्शाम्यति। विनष्टः पश्यतस्तस्य रक्षिणश्शरणागतः । आदाय सुकृतं तस्य सर्व गच्छेदरक्षितः। अस्वगर्य चायशस्यं च बलवीर्यविनाशनम् ॥ इत्युक्तेः। अत्रोदाहृततुल्यबलप्रमाणाभ्यामार्तिशान्तिकीर्तिशात्योयुगपत्प्राप्तयोरितरेतरविरुद्धतया युगपद्भावासंभवाद्विकल्पः । आर्तिकीयोश्शमनरूपसमानधर्मेणापम्यं शेयम् ॥ क्वचिल्लुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः ॥ यथावाकिंचिदा भूयो वा पञ्चायुधमञ्च मुञ्च जाड्यमये । धात्रीमेतां मोक्ष्यसि वैधात्री प्राप्स्यसि श्रियं वाऽपि ॥ १४८२ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy