SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ विकल्पालङ्कारसरः (५६) स्तात्पर्य, न तु मरणे वा प्रतारणे वा । एवं भक्त्यति श्लोकेऽपि बोध्यम् ॥ यथावा शङ्कातङ्कविदूरैलङ्काद्वारं न्यरोधि हरिवीरैः । सीतां वितर स्फीतां युधमथवा कोसलाधिनाथाय ॥ १४७९ ॥ अत्र ‘सीतां वाऽस्मै प्रयच्छ त्वं सुयुद्धं वा प्रदीयताम्' इति श्रीरामायणश्लोकानुसारिणि रावणं प्रति सारणवाक्ये रावणविषये संधिविग्रहप्रमाणप्राप्तयोरत एव तुल्यबलयोर्युगपद'संभवतोस्सीतायुद्धवितरणयोः पाक्षिकान्यतरप्राप्त्यनुपमर्दैनान्यतरप्रतिक्षेपलक्षणस्य विकल्पस्य वर्णनं कर्मणोस्सीतायुद्धयोः क्रियाफलेन वितरणेनैव समानधर्मेणौपम्यम् ॥ यथावा नागेशगिरिमणे अययोगेन त्वां प्रपन्न एष जनः। भोगं वा योगं वा देहि कियान् स्यात्नवैष भयभेदः ॥ १४८० ॥ नागेशगिरिमणे शेषाद्रिशिरोमणे एष जनः भययोगेन भीतिसंबन्धेन त्वां प्रपन्नः । भोगं सांसारिकसुखं वा योगं भोगनिवृत्तिकारणभूतं भक्तियोगं वा त्वदनुभवं वा देहि निरङ्कुशस्वतन्त्रतया यथेष्टं वितर । तव एष भयभेदः प्रपन्नभीतिनिराकरणं कियान् स्यात् न दुष्कर इत्यर्थः । भोगयोगशब्दयोर्भकारयकाराभ्यां भेदः कियान् अकिंचित्करः वर्णान्तरैकरूप्यादिति चाभि
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy