SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 38 अलङ्कारमणिहारे उदाहरणंनिश्शङ्कं शरणंगतमेष वेधाऽप्यार न बाधेत । राघवमाहवमथवा रजनिचरेश द्रुतं प्रपद्येथाः ॥ इदं रावणं प्रत्यङ्गदवचनं । एषः राघवः द्वेधाऽपि निश्शत शरणंगतं अरिं न बाधेत निश्शत अयं मां बाधेतात संशयरहितं यथास्यात्तथा शरणं गतं अरिं न बाधेत, शरणागतपरित्राणधर्मधुरीणमूर्धन्यत्वात् । पक्षे निश्शं निर्गतश्शकारो यस्मात्तं तथोक्तं शरणं रणमित्यर्थः । गतं युद्धार्थमभिमुखागतं कं अरिं न बाधेत सर्वमप्यभियातिनं बाधत एवेत्यर्थः । तस्मात् राघवं द्रुतं प्रप. घेथाः शरणं व्रज। प्रपूर्वस्य पद्यतेस्ताहशार्थकत्वात् । अथवा आहवं युद्धं प्रपद्येथाः प्रामुहि । अत्र प्रादने संधिविग्रहकर्तव्यताबोधकप्रमाणाभ्यां कर्मतया राघवाहवयोर्योगपद्यासंभवात्पर्यायेण प्राप्तिः । कर्मणोः क्रियाफलेन प्रपदनेनैव समानधर्मेणौपम्यम् ॥ नन्वत्र यथा प्रपूर्वकपदिधात्वर्थफलभूतप्रपदनरूपधर्मेक्याकर्मणोरौपम्यं गम्यते तथा 'जीवनं मरणं वाऽस्तु' इत्यादी सत्तारूपधर्मैक्याजीवनमरणयोः कर्बोरपि औपम्य गन्तुं युज्यत इति चेत् युज्यते न तु गम्यते। अथ तत्कुतो हेतोरति चेत् कवितात्पर्यविरहादिति गृहाण । न ह्यत्र भरणं जीवनं च समानमिति कवेस्तात्पर्य, किंतु विषं भुझ्व मा चास्य गेहे भुङ्था इतिवत् धर्माद्धतोमरणमपि ज्यायः न तु धर्मत्याग इति निषिद्धगतद्वेषाधिक्ये । तदर्थं च मरणस्योपात्तत्वादविक्षिताधिकरणतया औपम्यस्यानिष्पत्तिरेवेत्याहुः । एवं मरणं वा तरणं वेति श्लोके गम्यमानप्रतिज्ञाहानरूपनिषिद्धमादाय तद्गतद्वेषाधिक्ये प्रतियानिति श्लोके तु शरणवजनरूपविाहितगतादराधिक्ये कवे
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy