SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विकल्पालङ्कारसरः (६६) 37. णतरणशब्दयोमकारतकारमात्रवैषम्यादन्यतरमुपादायेत्यप्यर्थश्चमत्कृतिविशेषायोपस्कार्यः॥ प्रतियन्नखिलाहस्ततिमोचनवचनं व्रजामि शरणं त्वाम् । प्राप्तस्तस्यावसरः प्रतारणं वाऽस्तु तारणं वा तत् ॥ १४७६ ॥ ____ अखिलाहस्ततिमोचनवचनं 'सर्वपापेभ्यो मोक्षयिष्यामि' इति तव वचः प्रतियन् विश्वसन त्वां शरणं व्रजामीति चरमश्लोकार्थानुवादः। तस्य प्रतिज्ञातसर्वपापविमोचनस्य अवसरः प्राप्तः । सर्वपापशेवाधरूपमाहशविषयलाभादिति भावः । तत् तव वचनं प्रतारणं अतिसंधायकं वाऽस्तु तारगं संसृतिनिस्तारकं वा अस्तु ॥ ___ भक्तयाऽथवा प्रपत्त्या कृतापराधोऽपि नाथ विन्दे त्वाम्। मामेवं कृतयतनं गृहाण निगृहाण वा किमयशो मे ।। १४७७ ॥ ___ एवं कृतयतनं अनुष्ठितोपायं मां गृहाण रक्षतया स्वीकुरु । निगृहण वा निगृह्णीष्व वा मे मम किमयशः का वाऽकीर्तिः, प्रत्युत प्रपन्ननिग्रहे तवैवाकीर्तिरिति भावः । अत्र मरणतरणयोः, प्रतारणतारणयोः ग्रहणनिग्रहयोश्च . औपम्यप्रतीत्यभावात्केवलं विकल्पः । यथा-जीवनं मरणं वाऽस्तु नैव धर्म त्यजाम्यहम् इत्यादौ । अत्र जीवनमरणयोनौपम्यप्रतीतिरिति रसगङ्गाधर कारादयः॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy