________________
36
अलङ्कारभणिहारे
शैलादौ तनिषेधश्चेत्युक्तपरिसंख्यभेदो व्यक्त एव । अयं च तादृशजनस्य तादृशभारत्वासंबन्धेऽपि तत्संबन्धकथनरूपातिशयोक्तिशबलितेति ध्येयम् ॥
इत्यलंकारमणिहारे परिसंख्यालंकारसरः पञ्चपञ्चाशः..
अथ विकल्पालंकारसरः (५६)
विकल्पः पाक्षिकप्राप्तिर्वर्ण्यते चेविरुद्धयोः॥
एकस्मिन् धर्मिणि स्वस्वप्रापकप्रमाणप्राप्तयोः अत एव तुल्यबलयोर्विरुद्धयोर्विरुद्धत्वादेव युगपप्राप्तरसंभवात्पाक्षिक्यव प्राप्तिः पर्यवस्यति 'अयं च वक्ष्यमाणसमुश्चयप्रतिद्वंद्वी व्यतिरेक इवोपमायाः' इत्यलंकारसर्वस्वकृदनुयायी रसगङ्गाधरकृत् ‘समुच्चये हि द्वयोरपि युगपदेवस्थानं, इह त्वन्यधेति तत्प्रतिद्वंद्वित्वम् ' इति विमर्शिनीकारः । दीक्षितास्तु -वक्ष्यमाणकारकदीपकमलंकारान्तर वर्णयन्तस्तस्य प्रथमसमुच्चयप्रतिद्वंद्वितां तदनन्तरभाविनस्समाधेर्द्धितीयसमुच्चयप्रातद्वंद्वितां चाहुः ॥ ___ मरणं तरणं वा स्तान्महाम्बधेरित्यशायि मंतभेदात् । जलधितटे बत भवता रघुवर भवजलधितारकेणापि ॥ १४७५ ॥ ____ 'अद्य मे मरणं वाऽस्तु तरणं सागरस्य वा'
हाते श्रीरामायाणश्लोकोऽत्रानुसंहितः। मतभेदात् विकल्पादिति यावत् । ल्यब्लोप पञ्चमी । विकल्पमभिसंधायेत्यर्थः । मर