SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ परिसख्यालङ्कारसरः (५५) इत्युक्तरीत्या सत्वोन्मेषणपूर्वकं निश्श्रेयसरूपपरमपुरुषार्थप्रदाता त्वं कथं हेयपुरुषार्थे दद्या इति भावः । त्वत्तोऽन्यस्तु ब्रह्मा चतुर्मुखः रुद्रो वा तथा स्यात् प्रकृतिवैपरीत्यादनर्थदस्स्यात् नात्र संदेहः । पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः । रजसा तमसा चास्य मानसं समभिप्लुतम् ॥ 35 इत्युक्तरीत्या रजस्तमः प्रवर्तकतया हेयपुरुषार्थप्रदावेष स्यातां, न तु त्वमिव परमपुरुषार्थप्रदाविति भावः । पक्षे नन्दनन्दनति शब्दः प्रकृतेः उक्तविधप्रकृतेः वैपरीत्यात् प्रातिलोम्येन पाठात अनर्थदः यथोक्तार्थप्रकाशकः न भवेः । नन्दनन्दतोति प्रकृतेर्वैलोम्येन पाठेऽपि स्वार्थाप्रहाणादिति भावः । त्वदन्यः ब्रह्मा ब्रह्मेतिशब्दः रुद्रः रुद्र इति शब्दो वा तथा स्यात् प्रकृतिवैलोम्ये पूर्वानुपूविव्यत्ययात्कस्याप्यर्थस्य प्रकाशको न भवेदिति भावः । अत्र व्यवच्छद पूर्वकता, पूर्वेदाहरणेषु नियमपूर्वकतेति विभावनीयम् ॥ एषूदाहरणेषु स्वभावतो वा श्लषभित्तिकाभेदाध्यवसायेन वा उभयत्र प्रसिद्धसंबन्धस्य वस्तुन एकत्र विधानेनान्यत्र निषेधः प्रतिपादितः । केचितु एकत्र प्रसिद्धसंबन्धस्यापि वस्तुनोऽन्यस्मिन् धर्मविधानेन तत्प्रसिद्धिशालिनि धर्म्यन्तरे तत्प्रतिषेधः प्रतिपाद्यते ॥ यथा- यस्तुभ्यमभ्यसूयति तेन विगीतेन दुर्विनीतेन । भूरतिभारवतीयं शैलैस्सालैश्च नाथ न विशालैः ॥ शैलादीनामेवातिमात्रभूभारता प्रसिद्धा, न तु भगवदभ्यसूर्यकस्य जनस्य । अत्रच पद्ये ताहशजने अतिमात्रभारत्वविधानं
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy