SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 34 अलङ्कारमणिहारे mmmmmmmmmmmmmmmmmmmmmmm च प्रादिगण एव 'प्रादयः। गतिश्च' इति सूत्राभ्यां प्रादिग. णपठितानां शब्दानामुपसर्गगतिसंनयोरुभयविधानाहुरित्यस्य तत्र पठितत्वादिति भावः । विप्रादिगणे प्रादिगणविरुद्धे इत्यप्यर्थ उपस्कार्यः॥ . एषदाहरणेषु व्यवच्छेदस्य शाब्दत्वेऽपि श्लेषमूलकाभेदाध्यवसायसंभिन्नतया चामत्कारातिशयाद्भवत्येव परिसंख्यालंकारः । एवंच परिसंख्यालंकृतेरार्थीत्वशब्दात्वाभ्यां द्वैधी द्रष्टव्या । अस्याः प्रश्नपूर्वकत्वतदभावाभ्यां द्वैविध्यं प्राक्तनैरुदाहृतमपि विच्छित्तिविशेषविरहात्कुवलयानन्दकारैरुपेक्षितम् । अस्याश्च श्लेषानुप्राणि तत्वे अतिमात्रचमत्कारिता यथा अनुपदमेवोदाहृतेषु पद्येषु पारदनिष्फलीकरणादिश दश्लेषणात्यन्तचारुता प्रतीयत इत्यवधेयम् ॥ ____ अस्यां च परिसंख्यालंकृतौ व्यवच्छेदनियमनयोर्न पौर्वापयनियमः । यथा शुद्धापहृतौ निवारोपयोः। तथाच व्यवच्छेदपूर्वक्रतायामपि नियमनपूर्वकतायामिव परिसंख्यालंकृतिरक्षतैव ॥ न प्रकृतिवैपरीत्यादनर्थदो नन्दनन्दन भवेस्त्वम् । त्वत्तोऽन्यस्तु तथा स्याब्रह्मा रुद्रोऽथवा न संदेहः ।। १४७३ ॥ हे नन्दनन्दन त्वं प्रकृतिवपरीत्यात् ‘यत्सत्वं स हरिदेवः, महान्प्रभुर्वै पुरुषस्सत्वस्यैष प्रवर्तकः' इत्यायुक्तसत्त्वस्वभावविपरीतत्वात् अनर्थदः रजस्तमःप्राचुर्यप्रयुक्तं पुरुषार्थ दाता न भवेः । जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकस्स हि विशेयस्स वै मोक्षार्थचिन्तकः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy