________________
परिसंख्यालङ्कारसरः (५९)
27
तपः कृचान्द्रायणादिः । अत्रापि शाब्दी व्यावृत्तिः पूर्ववदेव शुद्धा॥
साफल्यं क्कनु वचसां सारसनयनस्य वर्णने यशसाम् । न तु वितथनृपतिपाशप्रततिस्तोत्रेऽतिमात्रचित्रेऽपि ॥ १४६० ॥
अत्र शाब्दी व्यावृत्तिः, प्रश्नपूर्विका च ॥
इदं प्राचां मतम् । अन्ये तु व्यावृत्तेरार्थत्व एव परिसंख्यालंकारः। अन्यधा तु शुद्धा परिसंख्यैव । यथा हेतुत्वस्यार्थत्व एव हेत्वलंकार। अन्यधा हेतुमात्रम् । अतो भेदद्वयमेवास्या इत्याहुः॥
अपरे तु-व्यावृत्तेरार्थत्वेऽपि नालंकारत्वं, 'पञ्च पञ्चनस्खा भक्ष्याः, समे यजेत, रात्सस्य, इत्यादावपि तदापत्तेः । किंतु कविप्रतिभानिर्मिता या तादृशव्यावृत्तेरेवालंकारत्वम् ॥
सा यथा
आसर्गमविरतानां दुरितानां शान्तये दुरन्तानाम्। भगवन्मम शेषतया भवतो निर्देश एव निर्वेषः ॥ १४६१ ॥
हे भगवन् ! आसर्ग आसृष्टेः अविरतानां दुरन्तानां दुरितानां शान्तये मम शेषतया शेषत्वेन भवतो निर्देश एव त्वदेकशेषस्य मम शेषिणो भवतोऽनुसंधानमेव निर्वेषः प्रायश्चित्तम्। न तु कृचान्द्रायणादिरिति भावः ।
स्वोजीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि। अत्मदास्यं हरेस्स्वाम्यस्वभावं च सदा स्मर॥