SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अलङ्कारमणिहारे नखा भक्ष्याः' इत्यत्र परिसंख्याया नियमपदेनोक्तिर्महाभाष्येऽपि दृश्यते । क्रमेणोदाहरणानि यद्यस्ति तव दिदृक्षा साक्षाल्लक्ष्मीविलासिनं पश्येः । इष्टा चेत्परिचर्या पर्याप्तं तं त्वमङ्ग परिचर्याः ॥ १४५६ ॥ ___ अत्र यदिचेच्छब्दाभ्यां निवेदितस्य रागप्राप्तस्य दर्शनादेः कर्मतायाः भगवति श्रीनिवासे विषयान्तरे च प्राप्तत्वेन लिङर्थघटितवाक्यार्थवैयर्थ्यप्रसंगाद्विषयान्तरं न पश्यरित्यादिरूपा विषयान्तरे तत्तक्रियाकर्मत्वव्यावृत्तिस्तात्पर्यविषयतया कल्प्यमानत्वादार्थी शुद्धा चेयम् ॥ को रोगो मवयोगः को वैद्यस्स खलु यः पुमानाद्यः। किं भैषज्यं प्राज्यं यत्तनामानुवादसाम्राज्यम् ॥ १४५७ ॥ अत्र भवयोगादिकमेव रोगादिकं नान्यदित्यर्थस्तात्पर्यमर्या. दया प्रतीयत इत्यार्थीये प्रश्नपूर्विका च ॥ क्षेत्रं फणिवरगोत्रं स्थाने जानेऽन्यदूषरक्षेत्रम् । देवस्स वासुदेवस्सुतरामितरस्सविग्रहमृदेव ।। अत्र ऊषरक्षेत्रसविग्रहमृत्पदाभ्यां दिव्यक्षेत्रत्वदिव्यदेवत्वव्यावृत्तिः प्रतीयत इतीयं शाब्दी शुद्धा॥ यथावा स्वान्तं मम मधुमथनेऽत्यन्तं विलगतुं कदाचिदपि न धने । रतिरस्तु तस्य चरणेऽप्रतिमा न तु मे वृथा तपश्चरणे ॥ १४५९ ॥ उधा।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy