________________
25
परिसंख्यालङ्कारसरः (५५)
wwwwwwwwwww बिम्बानि बिम्बीफलानि तावकीनानां त्वद्भक्तानां गृहेषु स्थिताः बालाः मुग्धललनाः माणवका वा। यद्यप्यत्र समृद्धिमतस्तुवर्णनात्मकोदात्तालंकारदत्तहस्ते दानादाने । अथापि न ते कविप्रतिभोन्मीलिते। क्रयस्य वास्तवत्वादिति नेदृशान्युदाहरणतामर्हन्ति ॥
यदीशदानादानयोरपि कविप्रतिभोन्मीलितत्वमभ्युपगम्यते तदा इदमप्युदाहरणमेव, न तु अधिविपणीति पद्यवत्प्रत्युदाहरणम्॥
इत्यंलकारमीणहोर परित्तिसरश्चतुःपञ्चाशः.
अथ परिसंख्यालंकारसरः, (५५)
एकस्यानेकसंप्राप्तौ यदेकत्र नियन्त्रणम् । परिसंख्येति तत्प्राहुरलंकाराध्वयायिनः ।।
एकानेकप्रस्तावादिहास्योक्तिः । एक वस्तु यदाऽनेकत्र युगपत्संभाव्यते तदा तस्यासंभाव्यतया द्वितीयपरिहारेणैकत्र नियमनं परिसंख्या। कस्यचित्परिवर्जनेन क्वचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या। सा चैषा प्रथम द्विधा शुद्धा प्रश्नपूर्विका चेति । द्विविधा चैषा आर्थी शाब्दीति पुनर्द्विविधेत्यस्याश्चत्वारः प्रभेदाः । यद्यपि पाक्षिकप्राप्तार्थनिवर्तको नियमः । युगपत्प्राप्तविषयकान्यव्वात्तिफलकस्तु परिसंख्यति पूर्वतन्त्रमर्यादा। तथाऽप्यास्मन् दर्शने पाक्षिकप्रप्तिनित्यप्राप्तिरूपोऽवान्त. रविशेषो न विवक्ष्यते, प्रयोजनाभावात् । अतएव ‘पञ्च पञ्च. ALANKARA—III.