________________
.
24
यथावा
अलङ्कारमणिहारे
आकाशराजतनया राकाशशिदास्यदास्य रुचिनिचया । जगदीश्वरमत्रैषत्मिगुणतमं कनककलशकोशाभ्याम् ॥ १४५३ ॥
प्रगुणतमं अतिशयेन ऋजुस्वभावं " ऋजावजिह्मप्रगुणौ ' इत्यमरः । अनेन परकृतातिसन्धानानभिज्ञत्वं व्यञ्जितम् । कनककलशकोशाभ्यामित्यनेन हेमकुम्भन्यस्तार्थनिवहाभ्यामिति च गम्यते । अत्र श्रुतियुवतीत्युदाहरणे असितरत्नत्वेन भगवतः श्लक्ष्णप्रवाळत्वेनाधरस्य चाध्यवसानाद्रूपकातिशयोक्तिः । तदुत्तम्भिता न्यू. नाधिक परिवृत्तिः । आकाशराजेत्युदाहरणे कनककलशकोशाभ्यामिति रूपकातिशयोक्तया उक्तरीत्या प्रगुणतममिति साभिप्रायविशेषणरूपपरिकरालंकारेण चोपस्कृता सेति विशेषः ॥
एषूदाहरणेषु दानादानव्यवहारः कविकल्पित एव । न तु वास्तवः । यत्र वास्तवस्तत्र नांलकारः ॥
यथावा
अधिविपणिसरणि फणिगिरिरमणमनः प्रीणनाय सुमणिगणान् । क्रीणन्ति घुमणिधूणीन्कतिचन कृतिनस्सुतुल्यमूल्येन ॥ १४५४ ॥
युमणेः घृणयो रश्मय इव घृणयो येषां तान् । अतितेजस्विन इत्यर्थः । नात्र दानादाने कविप्रतिभाकल्पिते ॥
शम्बधरमणिकदम्बैः क्रीणन्त्यखिलाम्ब जाम्बवफलानि । कुरुविन्दकनिकुरुम्बैर्बिम्बानि च तावकीनगृहबालाः ।। १४५५ ॥