SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ वसुधायाः धरणीदेव्याः तनया पद्मावती तस्याः । पञ्च शाखाः यस्य तं कञ्चिद्वस्तुविशेषं, पाणिमिति तु तत्त्वम् । सहस्रशाखं अनन्तशाखान्वितं अतिविपुलमति तत्त्वम् ॥ यथावा f परिवृत्त्यलंकारसरः (५४) यत्कींचिच्छदमच्युत भुवनलवं चापि तव पदे दत्वा । अधिपत्वं भुवनानामाददिरे बहुपरिच्छदं कृतिनः ॥ १४५१ ॥ 23 यथावा यत्किंचिच्छंदं तुलस्यादिदलं भुवनलवं जलकणं च तव पदे दत्वा 'पत्रं पुष्पम् ' इत्युक्तरीत्या बहवः परितः छदाः दलानि यस्मिन्, पक्षे बहवः परिच्छदाः सचिवादिपरिवाराः यस्य तत्तथोक्तं भुवनानां उदकानां लोकानां च अधिपत्वं वरुणत्वमिन्द्रत्वं धातृत्वं वा आददिरे स्वीचक्रिरे । कृतिन इति विशेष्यं यत्किचिधन्ननवस्तुदाननातिमात्राभ्यधिकवस्तुपादानचातुर्याभिप्रायगर्भम् । अत एवेयं श्लेषपरिकराङ्कुरोत्तेजितीत पूर्वस्माद्विशेषः पूर्वे तु श्लेषमात्रोपस्कृतम् ॥ श्रुतियुवतीसीमन्तप्रतियत्नमनर्घमसितरुचिरत्नम् । श्लक्ष्णप्रवाळदानाच्छाशिवदना काऽपि गोपि - काऽक्रीणात् ॥ १४५२ ।। श्लक्ष्णः अल्पः 'श्लक्ष्णं दभ्रं कृशं तनु' इत्यमरः । यः प्र वाळः विद्रुमः तस्य, पक्षे श्लक्ष्णः स्निग्धः ' मसृणे श्लक्ष्णसोमालचिक्कणा:' इति वैजयन्ती । यः प्रवाळ : तत्त्वेनाध्यवसितोऽधरः तस्य प्रदानात् । स्पष्टमन्यत् ॥ 1
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy