SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 22 अलङ्कारमणिहारे _ 'एषोऽणुरात्मा। महतो महीयान् ' इति श्रुतिरत्रानुसंधे. या। विहितः अनुष्ठितः उपायः भक्तिप्रपत्त्यन्यतरसाधनं यैस्ते तथोक्ताः । क्रीतं वितन्वते । ‘भावक्रोतो जनार्दनः। भक्तिक्रीतो जनार्दनः' इत्युक्तोरीति भावः ॥ __ यथावा धानापूर्णप्रसृतेर्दानात्त्वत्तो रमापतेऽक्रीणात् । दीनावन मानातिगनानाविधसंपदं कुचेलमुनिः ॥ ___ धानापूर्णप्रसृतेर्दानादित्यत्र विशेष्यभूतायाः प्रसृतेर्दानायोगाप्रसृतिर्णधानादानादिति विशेषणभूतधानासु दानस्यान्वयः । स्वर्गी ध्वस्त इत्यादिवत् । वदन्ति हि 'सविशेषणे हि विधिनिषेधौ विशेष्ये बाधे विशेषणमुपसंक्रामतः' इति न्यायविदः । हे दीनावनेति संबुद्धयन्तं पदं रमापते इत्यस्य विशेषणम् ॥ यथावा--- पदसलिलमयीं कामपि दत्वा स्रोतस्विनी पयोनिधये। तेजस्विनीमुपादास्तस्मात्कन्यामाण मणिं च विक्षो ॥ १४४९ ॥ _ विभो भगवन् ! पयोनिधये स्रोतस्विनी दत्वेत्यनेन अनपेक्षितदानमुक्तम् । स्रोतस्विनी नदी। अत्रोदाहरणत्रयेऽपि न्यूनेनाधिकपरिवृत्तिस्स्पष्टा । इमानि अष्टाङ्गयोगेत्यादीनि पञ्चोदाहरणानि शुद्धानि ॥ यथावा वसुधातनयास्तनयोस्समर्पयन पञ्चशाखमतिकुतुकात् । ताभ्यां सहस्रशाखं प्रमोदमनुविन्दतेऽरविन्दाक्षः ॥ १४५० ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy