________________
परित्यलकारसरः (५४)
21
पापकृत्याम्' इति श्रुत्यानुवादिनाति च पूर्वोदाहरणेभ्यो वैलक्षण्यम् ॥
दीक्षितास्तु-इम समपरिवृत्तिं नाद्रियन्ते, किंत्वसमपरिवृत्तिमेव । तथाच तदीयं परिवृत्तिलक्षणं-'परिवृित्तिर्विनिमयो न्यूनाभ्याधकयोमिथः' इति ॥ तृतीयपरिवृत्तिर्यथा
अष्टाङ्गन्योगभूम्ना नाथ षडङ्गेन वा प्रपदनेन । त्वत्तोऽपवर्गदातुः केचित्क्रीणन्ति हन्त कैवल्यम् ॥
अत्राष्टाङ्गयोगषडङ्गप्रपदनाभ्यामाधिकाभ्यां न्यूनस्य कैवल्यस्य परिवत्तिः। कैवल्य केवलात्मानुभवः ॥
यथावा
दारागारापत्यश्रीराज्यादि समय॑ विभवं ते । वेंकटगिरिपरिबृढ तव कैंकर्य केऽपि हन्त वि. न्दन्ति ॥ १४४६ ॥
अत्राप्यधिकेन राज्यादिविभवेन न्यूनस्य कैंकर्यस्य परिहात्तः । इदं ‘सर्व परवशं दुःखम्' इति लोकदृष्टया कैंकर्यस्य न्यूनतामभिसंधायोदाहृतम् । वस्तुतत्सु दारागारादिविभवापेक्षया भगवत्कैकर्यस्य ज्यायस्तया न्यूनेनाधिकपरिवृत्तेर्वक्ष्यमाणाया एवेदमुदाहरणं संमन्येरन् ब्रह्मवेदिनः ॥
अणतरमात्मानं त्वयि फणिगिरिनाथार्पयन्त इह सन्तः । महतोऽपि महान्तं त्वां विहितोपाया वितन्वते क्रीतम् ॥ १४४७ ॥