SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 28 अलङ्कारमणिहारे यथाऽग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा वित्तस्थितो विष्णुर्योगिनामखिलाशुभम् ॥ अयं हि कृतनिर्वेषो जन्मकोट्यंहसामपि । यद्वयाजहार विवशो नाम स्वस्त्ययनं हरेः ॥ इत्यादिप्रमाणान्यत्रानुसंधेयानि । शेषतयेत्यत्र शे पतयेति पदद्वयम् । शे शकारे षतया षकारतया शकारस्थाने षकारन्यासादिति यावत् । निर्वेश: निर्वेशशब्दः निर्वेषशब्दो भवतीति विच्छित्तिविशेषोप्यनुसंधेयः ॥ यथावा श्रीरजनिविधौ भगवति नीरजनयने विदोषमवति भुवम् । रजनिमुख एव नितरामजनि जनानां प्रदोषताख्यातिः ॥ १४६२ ॥ श्रीः लक्ष्मीरेव रजनिः रात्रिः तस्याः विधौ चन्द्रमसीत्यर्थः यथावा अवति हरे त्वयि भुवनं विपत्तिशब्दोऽपदातिसैन्येऽभूत् । अश्रावि कृछ्रशब्दः प्रायश्चित्तप्रसङ्ग एव जनैः ॥ १४६३ ॥ • इत्यादौ । विपत्तिशब्दः विपद्वार्ता । विगताः पत्तयो यस्मिस्तत् विपत्ति विपत्तितिशब्दः । कुछ्रे कष्टं पराकादिकृछ्रं चेत्यर्थः । ' यस्मिन् शासति वसुमतीपाकशासने महानसेषु सन्तापः ' इत्यादिपरकीयप्रबन्धेषु च ॥ अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकृत इति तद्वारा तत्प्रतियोगिव्यावृत्तिर्निर्मिता । एवञ्च यद्यस्ति तव दिदृक्षा' C
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy