SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 340 अलंकारमणिहारे भूततापत्रयनरकादिदुःखकरं वा भवतु नहनमेव खलु यथा तथा वा बन्धनमेव भवति खलु न हि सुवर्णमयमपि निगळं न बन्धनायावकल्पते अयोमयमेव बन्धकमिति दृष्टं श्रुतं वेति भावः । पक्षे नहनं नहनमित्याकारकं पदं अनुकूलं अनुलोमतया पठितं प्रतिकूलं प्रतिलोमतया पठितं वा नहनमेव उभयथाऽपि नहनमित्येव निष्पद्यत इत्यर्थः । अत्र नहनस्य नहनत्वविधानमनुपपद्यमानं निश्श्रेयसगतिप्रतिरोधितां गर्भीकरोति। सा च पुण्यापुण्यकरणकत्वविशेषणात्प्रकाशिता। 'तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इत्यादिश्रुतिभिः पुण्यापुण्यविभूननानन्तरमेव हि निश्श्रेयसगतिः प्रतिपाद्यते । यद्वा तन्नहनत्वविधानं भगवदितरदुर्मोचत्वं गर्भीकरोति । पशवः पाशिताः पूर्व परमेण समाधिना। तेनैव मोचनीयास्ते नान्यो मोचयितुं क्षमः॥ इति प्रमाणात् 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इत्यादिकमप्यत्रानुकूलम् । एषु विधिप्रतिषेधोदाहरणेषु अर्थान्तरसंक्रमितवाच्यलक्षणव्यङ्गयार्थसद्भावेऽपि न ध्वनित्वव्यपदेशः, तेषां व्यङ्गयानां 'निरुपमकरुणाशिशिरा। जगदीश्वरतहासौ' इति स्वोत्क्यैवाविष्करणात् । ननु चाक्षेपालङ्कारावान्तरभेदत्वेन विधिप्रतिषेधयोः पूर्वमुक्तेर्न पृथगलंकारतया परिगणनमुचितमिति चेत् बाधितयोस्तयोराक्षपभेदत्वमभ्यधायि प्राक् । इह तु सिद्धयोरलंकारतति गृह्यताम् ॥ इत्यलंकारमणिहारे विधिसरस्त्रयधिकशततमः.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy