________________
निरुक्तिसरः (१०१)
333
'शतकोटिस्स्वरुश्शम्ब' इत्यमरः। त्वां विजिगीषुस्सन् स्वनखैः भिन्नः विदारितः अतएव अन्वर्थाभिधः सुष्टु अरुः यस्य सः स्वरुः बलवद्रण इति अन्वर्थसंज्ञकः अभवत् । 'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । नृहरे इति दम्भोलिविभेदनक्षमनखशिखातैक्षण्यातिशयाभिप्रायगर्भम् । अत्र स्वस्तरुः स्वस्तरुशब्दः परास्तः पराकृतः स्तः स्त इति वर्णो यस्य स तथोक्तः । अतएव स्वरुभूत्वा उक्तरीत्या स्वरुशब्दो भूत्वेत्यर्थोऽपि चमत्कारातिशयाधायकः । अत्र स्वरुरिति नानो योगेनार्थान्तरपरिकल्पनं विषमालंकारसंकीर्णम् ॥
यथावा- श्रीरुचिभारकचाकचिदूरधुतं कनकमीषदार्तम
रौत् । तदिदं कार्तस्वरमिति गदित कविभिरिति विदितमस्माभिः ॥ १९७६ ॥
अरौत् अक्रन्दत् । ईषदातः कार्तः स्वरो यस्य तत्तथोतं 'ईषदर्थे' इत्यनेन कोः का इत्यादेशः । अत्र कार्तस्वरमिति नानः योगेनार्थान्तरकल्पनम् ॥
यथावा
भ्रात्रा सह हरिहृदयं यान्त्या रत्नाकरो जनिनिकाय्यः । मुद्रित आसीद्रमया नूनं तदिमं जगुसमुद्र इति ॥ १९७७ ॥
भ्रात्रा कौस्तुभेन सह निर्गमनं जन्मगृहस्य रत्नाकरत्वं च मुद्रणावश्यकतां द्योतयतः । अत्र समुद्र इति नामधेयस्य योगेनार्थान्तरकल्पनम् । समुद्रशब्दः संपूर्वकात् 'उन्दी क्लेदने'