SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 334 अलङ्कारमणिहारे इत्यस्माद्धातोः 'स्फायितञ्चि' इत्यादिना रकि सिद्धः । समी. चीनाः उद्राः जलजन्तुविशेषा अस्मिन्निति कैश्चिनिष्पादितः । तस्य योगेनान्यदर्थकल्पनम् ॥ यथावा____निजवदनरुचिजिहीर्षोस्सितयुतेर्हरिरवद्यति स्म करान् । शुचिकरतयैष विदितोऽवदातकरतां कुतोऽन्यथा बिभूयात् ॥ १९७८ ॥ करान् हस्तान् किरणानिति तु तत्त्वम् । अवद्यति स्म कृणत्ति स्म 'दो अवखण्डने' अस्मादेवादिकात्कर्तरि लट् । अन्यथा एवं करच्छेदाभावे शुचिकरतया परस्वापहरणदोष. विरहेण शुद्धहस्ततया विशद किरणतयति वस्तुस्थितिः । विदितः एषः अवदातकरतां अवकृतपाणितां शुक्लांशुतामिति परमार्थस्थितिः । ‘कृत्तं दातं दितं छितम्' इत्यमरः । द्यतेः कर्मणि क्तः । 'आदेचः' इत्यात्वम् । शिष्टं स्पष्टम् । अत्रावदातकर इति सितकिरणतारूपप्रवृत्तिनिमित्तशालिनो नाम्न उक्तरीत्या योगेनार्थान्तरवर्णनम् ॥ यथावा निजमन्दहसितलक्ष्मीममुषिषयेन्दौ करान्प्रसारयति । तानसिनोत्सपदि हरिस्तेन स सितकर इति प्रथामयते ॥ १९७९ ।। _असिनोत् अबध्नात् 'षिञ् बन्धने' लङ् । सितकरः संदानितपाणिः । अत्र सितकर इति नाम्न उक्तरीत्या योगेनान्तर प्रक्लप्तिः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy