________________
332
अलङ्कारमणिहारे
इदमेकार्थकं पद्यद्वयमानुपूर्वी वैचित्र्य प्रदर्शनमात्र सारम् 'वि. सारशकुली' चेति मीनपर्यायेष्वमरः । अत्र उक्तप्रकारेण विसार इति मीननाम्नो योगेनार्थान्तरकल्पनंम् ॥
यथावा
हरिणा स्वरुचिजिहीर्षुर्धनः कपोलेऽभ्यहन्यत प्रायः । अस्य भ्रश्यन्ति रदाः करकमिषानीरदं तदाहुरमुम् ॥ १९७३ ॥
निर्गळिताः रदाः दन्ताः यस्य स इति नीरदशब्दस्य योगप्रदर्शनेनार्थान्तरकल्पनम् ॥
यथावा
तव यशसेवाच्युत भुवि पवित्रितायां स्वजन्मवैफल्यम् । जानाना विबुधधुनी जाता मन्दाकिनीति सार्थाख्या ॥। १९७४ ॥
मन्दा अभाग्या अलसा वा अकिनी दुःखिनी 'अकं दुःखे च पापे च' इति विश्वः । अत्र मन्दाकिनीति नाम्नो योगेनार्थान्तरकल्पनम् ॥
यथावा
स्वस्तरुरुदारमणिना त्वया परास्तस्ततस्स्वरुभूत्वा । त्वां विजिगीषुस्त्वन्नखभिन्नोऽन्वर्थाभिघोऽभवन्नृहरे ।। १९७५ ॥
स्वस्तरुः कल्पशाखी उदारमणिना त्वया परास्त: औदार्येण निरस्तः ततः वैरशुद्धिविधानाय स्वरुः दम्भोळिः भूत्वा