________________
निहीतसरः (१०१)
331
Ananda
aaivanamamharmammmmmmmmmmm
हे हरे यत् यस्मात् तव प्रेक्षा प्रज्ञा प्रेक्षोपलब्धिश्चिसंवित्' इत्यमरः । पक्षे प्रकृष्टा ईक्षा तदैक्षत बहु स्याम्' इत्यायुक्तसंकल्पः नामानि प्रातिपदिकानि, उपलक्षणमेतदाख्याता. नाम् । तेषां रूपाणि स्वरूपाणि विश्वानि नामरूपाणि यस्मिस्तत्तथोक्तं यद्वयाकरणं शब्दनयः तस्मिन् पटीयसी। अन्यत्र विश्वस्य चिदचिदात्मकप्रपञ्चस्य नामरूपव्याकरणे देवादिविचित्रसृष्टितन्नामधेयकरणे पटीयसी। तत् तस्मात् एवंविधव्याकरणनयपटुतरप्रज्ञत्वात्, पक्षे तव एवंविधसंकल्पवत्वात् । सच्छब्दितं सन् विद्वान् इति शब्दितं उक्तं 'सन्सुधीः' इत्यमरः । पक्षे 'सदेव सोम्य' इति सच्छब्दाभिलपनीयं अत्र सच्छब्दो मानसंबन्धयोग्यत्वलक्षणं सत्त्वं प्रवृत्तिनिमित्तीकृत्य परमात्मनि घर्तते । त्वां शेषस्य पतञ्जलितयाऽवतीर्णस्य ‘भगवतोऽनन्तस्य गिरि वाचि महाभाष्ये इत्यर्थः। ईश्वरं समर्थ तदधीतिबोधप्रचारपटीयांसमित्यर्थः। 'स्वामीश्वराधिपति' इत्यादिना सप्तमी। सत्य निश्चितं यथा स्यात्तथा । इतरत्र शेषगिरीश्वरं वेङ्कटाद्रिनाथं त्वां सत्यं सत्यं ज्ञानम्' इत्युक्तं परं ब्रह्म अवैमीति योजना । अत्र उक्तरीत्या शेषगिरीश्वरशब्दस्य योगेनार्थान्तरकल्पनम् ॥
यथावा
नलिनेक्षणललनामणि नयनरुचा तव निराकतो मीनः। विगळितसारो मन्ये विसारमेनं वदान्त तद्विबुधाः ॥ १९७१॥
धवलोज्ज्वलासितश्चा तव लोचनसरसिजेन मीन इह । प्रविलोपितसारोऽभूद्भुवि लोकैस्तद्विसार इत्यूचे ॥ १९७२ ।।