SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 328 · अलंकारमणिहारे कीर्त्यत्युक्तिर्यथा त्वदुपाश्रितजनसमुदययशःपयोराशिवीचिवि. क्षुभिताः । ब्रह्माण्डालाबुगणा निमजनोन्मजनैः प्रविलुठन्ति ॥ १९६६॥ इयं की|त्युक्तिः । नन्वतिशयोक्तितोऽस्याः को भेद इति चेत् अतिशयोक्तावसदुक्तिमात्र, अत्युक्तौ तु अतथ्यस्याद्भुतेति विशेषणादत्यन्तासदुक्तिरिति जानीहि । अतएव दण्डिना अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ . इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम् । कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥ इति । स्तनयोरसिपीवरत्ववर्णनं लोकसिद्धमित्येतादृशविशेषाख्यानेन उत्कर्षकथनेन अलंकृततया कान्तं रमणीयमेव भवतीत्युक्ता-- लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः । योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥ इत्यभिधाय - अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्यास्स्तनमण्डलम् ॥ इदमत्युक्तिरित्युक्तमेतद्गौडोपलालितम् । इत्यत्युक्तेरतिशयोक्तितो वैलक्षण्यं दर्शितम् ॥ ननु च उदात्तालंकारादत्युक्तः को भेदः 'वज्रशिलावाल' इत्यादिप्रागुपदर्शिततदुदाहरणे कविप्रतिभामात्रगोचरतया असं. भावितायास्समृद्धवर्णनेन वैलक्षण्याभावादितिचेत् अत्राहुः-संप
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy