________________
निरुक्तिसरः (१०१)
329
दुत्कर्षात्युक्तावुदात्तं, शौर्यात्युक्तावत्युक्तिः' इति । अन्ये तु “अ. त्यद्भुतकविप्रतिभामात्रगोचरासंभावितार्थवर्णनमुदात्तमित्युदात्ताललकार लक्षयित्वा तस्यार्थस्य संपच्छैार्योदार्यदिनानाप्रकारतया तथाविधसंपच्छैार्यादार्याद्यत्युक्तीनां भेदे प्रमाणाभावानात्युक्तिः पृथक् लक्षणीया" इत्याहुः । दीक्षितानां तु तथ्यत्वातथ्यत्वाभ्यामनयोर्भेद इत्यभिप्रायमवर्णयद्वैद्यनाथः ॥
इत्यलङ्कारमाणिहारे अत्युक्तिसरश्शततमः.
अथ निरुक्तिसरः (१०१) सा निरुक्तिोगतो यन्नानोऽर्थान्तरकल्पनम् ॥
योगवशानाम्नोऽर्थविशेषाभिधायिनोऽर्थान्तरोपवर्णनं निरुतिर्नामालङ्कारः। यद्यप्ययं प्राचीनैनीलंकारतया लक्षितः, तथाऽपि जयदेवीये चन्द्रालोके तृतीयमयूखे
निरुक्तं स्यानिर्वचनं नानस्सत्यं तथाऽनृतम् ।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् । इति काव्यलक्षणतया प्रतिपादितं निरुक्तमेव किंचिद्वैलक्षण्येन दीक्षितैरालंकारतया पर्यगण्यतेति तदनुरोधेनास्माभिरण्ययमलंकारो लक्षितः । नाम्नः प्रसिद्धयनुरोधेन कृतं निर्वचनं सत्यं, अनृतं निर्वचनं त्वन्यथा कलितम् ॥
यथा
अर्दयसि जनानेतानिर्दय इव भवदुरन्तकातारे । जगदीश तदिह सत्यं जनार्दनोऽसीति कोऽत्रं सन्देहः ॥ १९६७ ॥
ALANKARA_III
44