SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ अत्युक्तिसरः (१००). 327 ___ त्रिपाद्विभूतेः 'त्रिपादस्यामृतं दिवि' इति श्रुतायाः नित्यविभूतेः परतः परितः स्फुरता ज्वलता त्वद्योधानां सुग्रीवहनुमदादीनां तेजसा प्रतापेन । सा त्रिपाद्विभूतिः अत्यर्कानलदीप्तिः अतिक्रान्तभानुवह्निज्योतिः व्यरचि । अत्र ब्रह्मणस्सदनात्तस्य परं स्थान प्रकाशते । देवा हि यन्न पश्यन्ति दिव्यं तेजोमयं परम् ॥ अत्यर्कानलदप्तिं तत् स्थानं विष्णोर्महात्मनः । इति प्रमाणमिहानुसंधेयम् । इयं शौर्यात्युक्तिः ॥ औदार्यात्युक्तिर्यथा स्वकटाक्षलब्धनिरवधिविभवानां दानमनवधि नराणाम् । वीक्ष्य स्वयमर्थितया तगृहमभ्येत्य चलति न ततश्श्रीः ॥ १९६४ ॥ अत्र श्रीरपि स्वकटाक्षाधिगतविभवानां जनानां गृहमर्थित्वेनाभ्येत्य ततो न चलतीत्यनेन तद्भक्तानामौदार्यात्युक्तिः । ततो न चलतीत्यनेन तद्भक्तसंपदोऽक्षयत्वं व्यज्यते ॥ यथावा अर्थितया प्रतिहारं त्वदुदश्चितसंपदां नृणामम्ब । गच्छतिचेद्रिक्षाको गच्छतु धनदोऽपि याति भिक्षायै ॥ १९६५ ॥ कुबेरोऽपि त्वत्कटाक्षसमधिगतसंपदां जनानां गृहद्वारं भिक्षार्थ गच्छतीत्यौदार्यात्युक्तिः । भिक्षाको महेश्वर इत्यर्थान्तरमपि प्रतीयते॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy