________________
318
अलंकारमणिहारे
__ मितसितहसितविकस्वरकपोलफलकं कुरङ्गमदतिलकम् । वृषशिखरिनित्यभोग्यं वृणीमहे मनसि किमपि सौभाग्यम ॥ १९४८ ॥
अनयोः पद्ययो व्यस्वभाववर्णनम् ॥ इत्यलङ्कारमणिहारे स्वभावोक्तिसरस्सप्तनवतितमः.
अथ भाविकसरः (९८) वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी। प्रत्यक्षे इव दृश्यते यत्र तद्राविकं मतम् ॥
यत्रात्यद्भतचरितोपवर्णनादतीतानागतयोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः। न चातीतानागतयोः प्रत्यक्षवदवभासो विरुद्धः, अत्यद्भुतवस्तुवर्णनेन भाविकानां हृदि भावनोदयात् । तथाच भावनायाः प्रकर्षण घटत एव प्रत्यक्षायमाणत्वं भूतभाविनोरप्यर्थयोः। यथा
वृक्षेत्रक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ।। असीनस्सविशंस्तिष्ठन् भुञ्जानः पर्यटन् पिबन् । चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥ इत्यादौ । न चेय स्वभावोक्तिः, तत्र हि वस्तुस्वभावस्य यथावद्वर्णनेन प्रत्यक्षायमाणता। इह तु अद्भुतत्वेन । नापि रसवदाद्यलङ्कारः, यत्तत्र विभावानुभावाद्यनुसंधानेनैव रसादेर्भा