SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ भाविकसरः (९८) 319 wwwwww व्यत्वे न त्वद्भुतत्वेन । नं चोत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेन संभावनाभावात् । नापि भ्रान्तिमान्, भावानाया अभ्रान्तिकृतत्वात् । तस्मात्सर्वोत्तीर्णो विलक्षण एवायमलंकार इति वदन्ति ॥ यथाविकटोगटाट्टहासं विदलयतो दितिसुतेन्द्रहृदयतटीम् । अद्यापि सिंहशिखरिणि नरसिंहस्याभटी स्फुटीभवति ॥ १९४९ ॥ सिंहशिखरिण शेषाद्री तदेकदेशभूते अहोबिले इति यावत् । अत्र हिरण्यकशिपुवक्षोऽन्तरविक्षोभणदक्षोल्बणसंरम्भस्य श्रीनृसिंहस्य भगवतः अत्यद्भतातीतमहाभेटीवर्णनेन तथाविधभावनया तादृशप्रत्यक्षायमाणता। भीषणत्वोद्भावनमिदम् ॥ यथावा--- जनयन्ति मोदमक्ष्णोस्सनकसनन्दनसनत्कुमाराद्याः । अद्याप्यधिभुजगाचलमाद्या मुनयो हरि भजन्तो नः ॥ १९५० ॥ स्थानमाहात्म्योद्भावनमिदम् ॥ यथावा पत्रीश्वरमधिरूढे यात्रोत्सवकौतुकादहिगिरीन्दौ । ग्राहगृहीतगजावनसंभ्रममद्याप्यमुष्य पश्यामः ॥ १९५१ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy