SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 306 अलङ्कारमणिहारे यथावा--(युग्मं) किं चिरयसि संलपितुं किंचिदुदश्चय कुतूहलं ललने । तैलिकहालिकनिकटे कुतूहलं चापि लभ्यते नात्र ।। १९२४ ॥ कुप्यसि कस्मादनिते प्रसीद रूप्याकृते मयि प्रणते। कुप्येत्ति रूप्याकृतिरिति परिहसति स्म दयितमधिसुता ॥ १९२५ ॥ अत्राद्यश्लोके किञ्चित्कुतूहलमाश्लेषादावुदञ्चयोति भगवतोक्तस्य कुतूः कृत्तिस्नेहपात्रं हलं लागलं चेत्यनयोस्समाहारः कुतूहलमित्यर्थान्तरं परिकल्पय यथाक्रमं तैलिकनिकटे कुतूः हालिकनिकटे हलं च लभ्यते नात्रेत्युत्तरम् । द्वितीये तु हे रूप्याकृते प्रशस्तरूपाकारे हे वनिते जनितात्यनुरागे 'वनिता जनिः तात्यर्थानुरागायां च योषिति' इत्यमरः। प्रणते मयि कस्मात् कुप्यसि कोपं विधत्से इति भगवतोदितस्य आहतं रूपमस्य रूपं तस्येवाकृतिर्यस्या इत्याहतरूपहेमरूप्यान्यतरतुल्याकृतित्वरूपार्थान्तरम् । कुप्यसीत्यस्य कुप्यं कृताकृतहेमरूप्यभिन्नं ताम्रकांस्यादि तदिवाचरीत्यर्थ च कल्पयित्वा रूप्याकृतिः कथं कुप्येदित्युत्तरं भगवत्या जगजनन्या वितीर्णम् । रूप्यशब्दः 'रूपादाहतप्रशंसयोर्यप्' इति रूपशब्दादाहतप्रशंसयोर्थयोर्यप्र. त्ययेन निष्पन्नः । 'स्याकोशश्च हिरण्यं च हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्वयमाहत ।' इत्यमरः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy