________________
वक्रोक्तिसरः (९६)
307
यथावा-
उत्सृज्य मानकाटवमुदधिभवे मधुरमस्तु तव हृदयम् । न दधिभवाऽहं किंतूदधिजाता मस्तु मम कथं हृदयम् ।। १९२६ ॥
अत्र रोषकाटवमुत्सृज्य तव हृदयं प्रियं भवत्वित्यर्थकस्य उत्सृज्य मानकाटवं मधुरमस्विति वाक्यस्य उत्सृज्यमानं काटवं येन तत्तथाविधं मधुरं मस्तु दधिमण्डमित्यर्थान्तरं परिकल्प्य न दधिभवाऽहमित्यादिना उत्तरम् ॥
यथावा
अत्र पुमासं परमं विद्धि स्थितमब्जदलविशालाक्षि | मांसं या त्रपु विद्यात्तां प्रत्युपदेश एष
सफलस्स्यात् ।। १९२७ ॥
अत्र त्वदग्रे स्थितं मां परमपुरुषं विद्धीत्यर्थकस्य अत्र पुमांसमित्यादिभगवद्वाक्यस्य या मुग्धा मांसं त्रपु विद्यात् तां प्रति मांसं अत्रपु इत्युपदेशस्य साफल्यमित्यर्थान्तरकल्पनेन श्रिया उत्तरम् ॥
यथावा
तव नायकेन तन्वि प्रतिहारे स्थीयतां कियकालम् । ननु नायकेन हारे हारे स्थातव्यमेव सततमपि । १९२८ ॥
द्वारे तव प्रियेण कियदवधि स्थातव्यमित्यर्थकस्य तव नायकेनेत्यादि भगवद्वाक्यस्य नायकमणिना प्रतिमुक्ताहारमपि